महाभारत

यद्यपि महाभारतेऽपि काव्यात्मकत्वं विलसत्येव तथापि न तथा तत्र काव्यलक्षणं घटते यथा रामायणे । तत्र हि बहवो नायकाः, वस्तुनिर्देश एव प्रारम्भवाक्यं वीरो हि मुख्यो रसो जये शान्तो महाभारते । फलञ्चास्य धर्म एव । अत्र हि पूर्वभागे युधिष्ठिराभिषेकान्ता कथा वीररसप्रधाना, उत्तरभागं समावेश्य तु शान्तरसस्य प्राधान्यम् । रामायणेऽपि पूर्वकाण्डपर्यन्ता कथा वीररसप्रधाना उत्तरकाण्डं समावेश्य तु करुणरसस्य प्राधान्यम् ।

संस्कृतजगतः महाकाव्येषु महाभारतानन्तरं जाम्बवतीविनयं समुदेति । इदं उच्यते यत्, संस्कृतकाव्यस्य उदयस्तु प्रशान्तपावने तपोवनेऽजायत, किन्तु तस्य विकासो हि राज्ञां प्रासादेष्वेव समभवदुपरतञ्च तद्राजप्रासादानां विनाशेन सहैव इति। कथ्यते हि पाणिनेः उदयाय प्रद्योतस्य नन्दिवर्द्धनस्य, वररुचेरुदये प्रद्योतस्यैव नन्दिनः, पतञ्जलेरुदयाय शुङ्गस्य पुष्यमित्रस्य, भासस्योदये राजसिंहस्य, कालिदासस्योत्कर्षाय विक्रमस्य, अश्वघोषोदये कनिकस्य, भारवेरुत्कर्षाय पुलकेशिद्वितीयस्य विष्णुवर्द्धनस्य, भट्टरुत्कर्षाय श्रीधरनरेन्द्रस्य, बाणस्योदये हर्षवर्द्धनस्य, माघस्योदयाय भोजाख्यस्य कस्यचिद् गुर्जरेश्वरस्य, रत्नाकरस्यावस्थानेऽवन्तिवर्मणः काश्मीरकस्य, श्रीहर्षस्योदये जयचन्द्रस्य कान्यकुब्जेश्वरस्य, विह्लणस्योदये चालुक्यस्य विक्रमादित्यस्य, जगन्नाथोदयाय शाहजहानस्य भूमिका दरीदृश्यते। वस्तुतस्तु कवयो हि द्विविधोद्देश्यपूर्तये राज्ञ आश्रयन्ते स्म । प्रथमं तु तेषां राजाश्रयेणाजीविकासमस्या समाहिता भवति स्म । अपरञ्च, तत्र तेषां ग्रन्थपरीक्षका अपि सुलभा भवन्ति स्म । यथा स्मरति राजशेखरः “श्रूयते हि पाटलिपुत्रे शास्त्रकारपरीक्षा” इति। राजप्रासादाश्रिता अपि कवयो न केवलं राजप्रशस्तीरेव जानन्ति स्मार्पयतु तृणकुटीरेऽपि तेषां दृष्टिः शश्वदेव जागरिता भवति स्म । तत्र हि एकतः –

‘प्रासादवातायनसंश्रितानां नेत्रोत्सवं पुष्पपुराङ्गनानाम्।’

इत्युच्यते तथैवापरतः –

‘आरण्यकोपात्तफलप्रसूतिस्तम्बेन नीवार इवावशिष्टः।’ इत्यपि संस्मर्यते।

ते हि आदर्शमुपस्थापयितुं वाञ्छन्ति स्म । तेन हि नृपस्तु तत्साधनत्वेनैव ते वर्णयन्ति स्म । यदि तादृश आदर्शोऽन्यत्रापि सम्भवति चेत्तानपि ते गृह्णन्ति स्म एव । यथा मेघदूते हि सामान्यपक्षो नायकरूपेण वर्णितोऽस्ति । तथैव मृच्छकटिकं हि दरिद्रविप्रस्य चारुदत्तस्य जीवनवृत्तस्यैकदेश एव । तेन हि संस्कृतकाव्यमुच्चवर्गस्यैव जीवनदर्पण इति यदुच्यते तदसारमेव । यथा च –

लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालप्रस्तरे सोपधाने।

परिहरति सुषुप्तं हालिकाद्वन्द्वमारात्कुचकलशमहोष्माबद्धरेखस्तुषारः॥

प्रहरकमपनीय स्वं निदिद्रसितोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति।

मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नो मनुष्यः।।

वासः खण्डमिदं प्रयच्छ यदि वा स्वाङ्के गृहाणार्भकं

रिक्तं भूतलमत्र नाथ भवतः पृष्ठे पलालोच्चयः।

दम्पत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा

लब्धं कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः॥

संस्कृतकाव्ये पाण्डित्यप्रदर्शनापेक्षया रसबन्धस्यैवाध्यवसायो बहुधा प्रवर्तितो दृश्यते । यद्यपि कालिदासापरवर्तिनो हि कवयो ज्ञानगरिमाणमपि स्वकाव्यविषयत्वेन ग्रथ्नन्ति स्म, तथापि तत्रापि रसापेक्षा तु नैव कथमपि क्षीणा वोपेक्षिता दृश्यते । नैषधीयचरिते ज्ञानगरिमा सर्वातिशायित्वेनान्तर्लीनो दृश्यते, तथापि तत्र रसपेशलता सर्वत्र विलसत्येव । न केवलं काव्यसामान्य एवापितु शास्त्रकाव्येष्वपि येषां हि प्रधानमुद्देश्यं व्याकरणशिक्षणमेव भवति रसपेशलतापेक्षितैव दृश्यते ।

सामान्यतः शृङ्गारवीरकरुणशान्तेष्वन्यतम एव रसः काव्यस्याङ्गित्वेन स्वीकृतोऽन्ये तु अङ्गरूपमात्रमेव । तत्रापि महाकाव्ये प्रायो वीरो वा शान्त एव सम्मतः।

35 Likes Comment